सामग्री पर जाएँ

फलकसम्भाषणम्:वर्षाः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाठ्यचर्यायाः संप्रत्ययः सिद्धान्ताश्च 1.1. पाठ्यचर्या - पाठ्यचर्या इत्ययम् आंग्लभाषायाः curriculum इति कथ्यते। curriculum इति शब्दः लैटिनभाषायाः currare इति शब्दात् निष्पन्नो वर्तते, यस्यार्थः भवति धावनक्षेत्रम्। पाठ्यचर्यायां ते समस्तानुभावाः सम्मिलिताः भवन्ति यान् बालकः स्वविद्यालयनिर्देशेन प्राप्नोति। इयं पाठ्यचर्या अनियोजितमनेकाङ्गी च भवति। विद्यालये जायमानानां सम्पूर्णक्रियाकलापानां समूहः भवति पाठ्यचर्या इति।

1.1.2 पाठ्यचर्यायाः परिभाषा (Definition of Curriculum) - शिक्षायाः पाठ्यचर्या एकस्यां शैक्षिकप्रक्रियायां घटितानां विद्यार्थ्यनुभावानां समृद्धता वर्तते। पाठ्यचर्यायां ते समस्तानुभावाः सम्मिलिताः भवन्ति यान् बालकः स्वविद्यालयनिर्देशेन प्राप्नोति।

1.1.3 पाठ्यचर्यायाः महत्वम् (Importance of Curriculum) - • पाठ्यचर्या सर्वांगीणविकासस्याधारः वर्तते। • पाठ्यचर्या शैक्षिकव्यवस्थानिर्धारणे समायोजिकः वर्तते। • औपचारिकानौपचारिकानुभावानां सन्तुलनं पाठ्यचर्यामाध्यमेन भवति। • छात्रजीवनस्य हेतुः समृद्धतायाः निर्धारणं पाठ्यचर्यामाध्यमेन क्रियते। • छात्रेषु स्वतन्त्रतामौलिकतासंवेदनशीलतादिवैयक्तिकगुणानां विकासार्थमाधारः भवति पाठ्यचर्या।

1.1.4 पाठ्यचर्याप्रकाराः (Types of Curriculum) - • बाह्यपाठ्यचर्या • आन्तरिकपाठ्यचर्या • सामाजिकपाठ्यचर्या • शून्यपाठ्यचर्या

बाह्यपाठ्यचर्या पाठ्यवस्तुनः तथा अन्यशैक्षिकगतिविधीनां बाह्यसंस्थाद्वारा यदा निर्धारणं क्रियते तद् भवति बाह्यपाठ्यचर्या। एतस्याः पाठ्यचर्यायाः क्रियान्वयनाय निर्देशानां रूपरेखाणां चापि निर्धारणं बाह्यसंस्थाद्वारा लिखितरूपेण क्रियते।

आन्तरिकपाठ्यचर्या अध्यापकसमूहेन विद्यार्थीसमूहेन च संयुक्तरूपेण निर्धारिता पाठ्यचर्या आन्तरिकपाठ्यचर्येति। तस्यां पाठ्यचर्यायां शैक्षिकोद्देश्यानां पूर्तये शिक्षकछात्रसमूहेन विविधप्रकारकक्रियाणां (पाठ्यक्रमस्य विषयाणां, विषयवस्तूनां, अन्यशैक्षिकगतिविधीनां च) निर्धारणं क्रियते। सामाजिकपाठ्यचर्या सामाजिकार्थिकदृष्ट्या विद्यार्थिनां अनुभवानां विकासाय या पाठ्यचर्या निर्मीयते सा भवति सामाजिकपाठ्यचर्या। अत्र सामाजिकावश्यकतानां पूर्तये वस्तुनिष्ठरित्या विषयवस्तूनां क्रियाविधीनां च चयनं भवति। यथा - कौशलाधारितप्रशिक्षणाय पाठ्यचर्या। शून्यपाठ्यचर्या अनिर्धारितपाठ्यचर्या अथवा पूर्णतः अनिर्धारितपाठ्यचर्या शून्यपाठ्यचर्या भवति।

१.१.५ पाठ्यचर्यायाः सिद्धान्ताः 1.विस्तृतता -

	अत्र स्वीकृतक्रियाणां गतिविधीनां वैविध्यं सौकर्यं वा अपेक्षितं वर्तते।

2.प्रगतिः - अस्य सिद्धान्तस्य तात्पर्यं विद्यार्थिनां अभिव्यक्तिं (प्रतिक्रियां) प्रापतेः आकलनं वर्तते। 3.गभीरता- स्वरूच्यावश्यकतानुसारेण पाठ्यचर्यायां स्वीकृतक्रियासु अधिकाधिकं अनुभवप्राप्तिः कौशलप्राप्तिः च अत्र महत्वपूर्णं वर्तते। 4. वैयक्तिकीकरणं विकल्पश्च - विभिन्नक्रियासु उत पाठ्यक्रमस्य विषयेषु वैकल्पिकतायाः अवसरः स्पष्टतः स्यात्। 5.समन्वयः- सामान्यतः एकस्मिन् संस्थाने (विद्यालये महाविद्यालये विश्वविद्यालये वा) पाठ्यचर्यायाः निर्धारणं समस्तविद्यार्थिभ्यः एकमेव स्यात्। अथ च औपचरिकानौपचरिकक्रियाणां पारस्परिकं समन्वयः स्यात्। 6.प्रासङ्गिकता पाठ्यचर्यायाः प्रत्येकं विषयस्य क्रियायाः कार्यक्रमस्योत्तरद्वायित्वस्य चोद्देश्यानां स्पष्टता स्यात्।

1.2. पाठ्यचर्यारूपरेखा - रूपरेखानां संरचना इति अन्यशब्देषु प्रस्तुतयोजना कथितुं शक्यते। यस्याधारेण कस्याश्चित्परिस्थितेः निर्माणं भवति तदेव पाठ्यचर्यायाः रूपरेखा भवति। पाठ्यचर्यायाः पाठ्यक्रमस्य च निर्माणाय आधारः भवति रूपरेखा। वस्तुतः रूपरेखायाः अभिप्रायः निर्देशात्मकः अनुशंसात्मकञ्च भवति।

1.2.1 पाठ्यचर्या- पूर्ववत्। 1.2.2 पाठ्यक्रमाः कक्षाकक्षीयशिक्षणस्य, पठन-पाठनयोः आधारः।

1.2.3 पाठ्यचर्यापाठ्यक्रमयोर्मध्ये अन्तरः –

आधाराः रूपरेखा पाठ्यचर्या पाठ्यक्रमाः

स्वरूपम्

संरचनात्मकम्, परामर्शात्मकम्, सर्वसमाहारात्मकम् समग्राधिगमकेन्द्रितम्

भाषाशिक्षणकेन्द्रितम्, विषयकेन्द्रितम्,(लिखितम्)


उद्देश्यम्

आवश्यकता- परिष्कारप्रतिपादनम्

सर्वपक्षीयविकासः/ अधिगमः

मुख्यतः संज्ञानात्मिका विकासः


निहितसंस्था उच्चस्तरीय प्रशासनिकनीतिनिर्धारकसंस्था

नीतिनिर्धारकसंस्था

क्रियान्वयन - उत्तरदायी संस्था


निहितक्रिया अन्वेषणमेवम् अध्ययनसमन्वयनम् औपचारिकमेवमनौपचारिकम् अन्तःक्रिया, पाठ्यसहगामिक्रियाश्च शिक्षणम्, अनुबोधनम् अभ्यासः, सुधारः, प्रश्नचर्या च


1.2.4 पाठ्यचर्यारूपरेखायाः महत्वम् -

• विद्यालयीयशिक्षायाम् अधिकाधिकं सकारात्मकगुणात्मकत्वानां समावेशः। • वस्तुनिष्ठरीत्या वर्तमानशैक्षिकप्रक्रियाणां अध्ययनम्। पाठ्यचर्यायाः महत्वम् आधुनिकतमसामाजिकवैयक्तिकविकासस्य अवधारणानाम् अनुरूपेण शैक्षिकव्यवस्थायाः अभिकल्पनम्। समग्रविकासस्य अवधारणाम् अङ्गीकृत्य प्रभावीवातावरणस्य प्रबन्धनम्। पाठ्यक्रमस्य महत्त्वम् औपचारिकसुनिश्वितविकासदृष्ट्या अधिगमानुभवानां स्तरवद्धव्यवस्थायाः सुनिश्चयनम्। मनोवैज्ञानिकसामाजिकपरिप्रेक्ष्येषु अध्येतव्यविषयाणां भाषाणां क्रमवद्धनिर्धारणम्।

१.३ पाठ्यपुस्तकस्य संकल्पना - संकल्पना = (अवधारणा / दृष्टिकोण): पाठ्यपुस्तके निहितताभ्यासानां माध्यमेन छात्राणाम् अनुक्रियाणां आवृत्तेः उत्पादनाय पाठ्यपुस्तकम् उद्दिपकं भवति। एकस्मिन् पाठ्यपुस्तके एकस्य विषयस्य भाषाया: वा विषयवस्तुनां संकलनं भवति। पाठ्यक्रमे निर्धारितविषयवस्तुनां प्रस्तुतीकरणाय पाठ्यपुस्तकमेकं साधनं भवति। एकं पाठ्यपुस्तकं विद्यार्थिभ्यः अध्यापकेभ्यः च निर्देशनं करोति। विद्यार्थिनामौपचारिकाधिगमस्य अनुभवानां च आकलनाय मूल्याङ्कनाय च साधनं भवति। १.३.१ मूल्यंम् पाठ्यपुस्तकस्य त्रिणि मूल्यानि – १) पाठ्यवस्तु: {Text Content} २) संज्ञानात्मक व्यूहरचना (रणनीतयः): {Cognitive Strategy} ३) अभ्यासः परिष्कारः {Exercise/Drill & Modification} पाठ्यवस्तुः- भाषा सरला भवेत्। लघुवाक्यानां प्रयोगः भवेत्। उचितगद्यांशानां संरचना भवेत्। विशिष्टपदानां चिन्हाङ्कनं स्यात्। उपयुक्तचित्राणामालेखानां तालिकानां च प्रस्तुति: भवेत्। उच्चस्तरेषु पाठ्यविषयवस्तूनां संबद्धतनां अन्यसान्दर्भिकसामग्रीणां प्रकाशनं भवेत्। संज्ञानात्मकरणनीतयः – सामान्यशिक्षणसिद्धान्तानां नियमानां च अनुसारेण पाठ्यवस्तूनां निर्धारणं भवति। अत्र विद्यार्थिनां प्रत्यक्षीकरणस्य स्मृतिनां प्रत्यभिज्ञानानां तार्किकचिन्तनस्य च माध्यमेन एतेषामेव विकासाय पर्याप्तः अवसरः कल्प्यन्ते। अभ्यासः परिष्कारः – उपयुक्ताभ्यासकार्याणां संरचना। अभ्यासकार्याणां विविधता। कृताभ्यासकार्यस्य मूल्याङ्कनाय अनुबोधनं सामग्रीप्रदानं च।

फलकम्:वर्षाः के बारे में चर्चा शुरू करें

चर्चा शुरू करें
"https://sa.wikipedia.org/w/index.php?title=फलकसम्भाषणम्:वर्षाः&oldid=496857" इत्यस्माद् प्रतिप्राप्तम्