सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

कौटलीयम् अर्थशास्त्रम् अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः। केचन अस्य नाम "कौटिल्य" इति वदन्ति। तन्न साधु। यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति। कामन्दकनीतिसारस्य "जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति। एतेन कुटलगोत्रापत्यं पुमान् "कौटल्यः" इति निरुच्यते। तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे "अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः। विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥" इत्युक्तम्। तस्मात् कौटल्यः इत्ये समीचीनम् नाम। अयं मगधेषु जातः। क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम्। (अधिकवाचनाय »)



आधुनिकलेखः

आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति। अस्याः जन्म क्रि.श.१९३३तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत। एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति। मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति। अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत्। सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती। अपि च अनेकानि गीतगुच्छार्थं गीतवती। भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

दश अवताराः के ?

  • मत्स्यः
  • कूर्मः
  • वराहः
  • नरसिंहः
  • वामनः
  • परशुरामः
  • श्रीरामः
  • कृष्णः
  • बुद्धः
  • कल्किः

अयं च श्लोक: -

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोऽस्तु ते ॥



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

अद्यतनं सुभाषितम्

रूपयौवनसम्पन्ना विशालकुलसम्भवाः।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

हितोपदेशः ३९

रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते। विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति। विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्